वैदिकसनातनधर्मावलम्बिनां सर्वेषां नेपालिनां गृहेषु घटस्थापनां विधाय शैलपुत्रीस्वरूपाया भगवत्या पूजनञ्च विधाय विजयादशमीपर्वणः शुभारम्भो जातो वर्तते ।
अद्य सोमवासरे प्रातः १०.२३ वादने शुभलग्ने स्व–स्वगृहेषु दीपकलशगणेशादीनां संस्थापनेन साकं घटस्थापनां विधाय तत्र च शक्त्यधिष्ठातृभगवत्या पराम्बाया आह्वानं पूजनञ्च विधाय, यवांकुरार्थं(जमरा) यवनानां वपनेन च अस्य शुभारम्भो जातोऽस्ति ।
नवरात्रिशब्देन व्यवह्रियमाणमिदं पर्व प्रतिवर्षम् आश्विनमासस्य शुक्लप्रतिपदातः प्रारम्भो भवति । इदञ्च पर्व अन्यपर्वणामपेक्षया विशेषमहत्वं धत्ते, यतो नवरात्रिपर्यन्तं भगवत्याः पराम्बाया उपासनां विधाय सर्वैः पारिवारिकजनैरेकत्रीभूय हर्षोल्लासपूर्वकं गृहेषु इदं पर्व सम्मान्यते ।
विजयतिलकदिनात् पूर्वेषु नवसु दिनेषु भगवत्या देव्या एकैकस्वरूपाणां प्रतिदिनमाह्वानं विधाय तस्याः सविधिपूजनेन भगवत्या पराम्बाया आशिर्वादग्रहणेन साकं जनानामियं नवदिवसीया आराधना(पूजा) समाप्तिं गच्छति । ततश्च तस्या आशिर्वादस्वरूपेण मान्यजनेभ्यः ललाटे रक्ताक्षतधारणेन शिरसि यवांकुरधारणेन च साकं इदं पर्व सर्वैः सम्मान्यते ।
भगवत्या दुर्गादेव्या विशेषतः महाकाली–महालक्ष्मी–महासरस्वतीतिभेदेन त्रीणि रूपाणि प्रसिद्धानि सन्ति । आनवरात्रमेताषामेव स्वरूपाणां सविधि आह्वानं कृत्वा तासां सम्पूजनेन तानि दिनानि व्यतीतानि भवन्ति । महाकालीति शक्तेः प्रतीकरूपेण तत्र विजाजते चेत् महालक्ष्मी देवी धनधान्य–ऐश्वर्यादीनां प्रतीकरूपेण तत्र विराजते । एवमेव विद्याया अथवा बुद्धेश्च प्रतीकरूपेण महासरस्वती देवी तत्र विराजते । एतेषां स्वरूपणामुपासनेन शक्ति–धनधान्यादि–विद्यादीनाञ्च सम्प्राप्तिर्भवतीति जनानां विश्वासो वर्तते ।
अद्य प्रथमे दिने च शैलपुत्रीस्वरूपाया दुर्गादेव्या सविधि आह्वानं पूजनं च विधाय दिनस्य प्रारम्भो जातश्चेत् स्वो भौमवासरे द्वितीये दिने ब्रह्चारिणीस्वरूपायाः, तृतीये दिने चन्द्रघण्टास्वरूपायाः, चतुर्थेऽह्नि कुष्माण्डास्वरूपायाः, पञ्चमे स्कन्दमातृस्वरूपायाः, षष्ठे कात्यायनीस्वरूपायाः, सप्तमे कालरात्रिस्वरूपायाः, अष्टमे महागौरीस्वरूपायाः, नवमे सिद्धिदात्रीस्वरूपायाश्च समाराधना विधास्यते ।
एतानि नवरूपाणि आदाय एव नवदुर्गा इति व्यवहारः क्रियते । स्वान्तर्निहिताया आसुरीप्रवृतेः निराकरणेन साकं दैवीप्रवृत्तेर्विकासाय इयमुपासना विधीयते इति धर्मशास्त्रविदां कथनमस्ति । यतो दैवीप्रवृत्तिरेव समस्तलोककल्याणप्रदा अस्तीति उक्तप्रवृतेर्विकासो नूनमावश्यको भवति सृष्टिसंरक्षणायेति च धर्मरहस्यविद्भिरुच्यते ।