जेष्ठमासस्य एकोनविंशे दिनांके वृहस्पतिवासरे काष्ठमण्डपस्थगौशालायां विद्यमानस्य श्रीवेंकटेशमन्दिरस्य प्रांगणे यतिराजमतसंबर्धिनी सभा (षष्ठी श्रृंखला) सम्पन्ना अस्ति ।
दिवा द्विवादनात् चतुर्वादनपर्यन्तमेषा सभा प्रचलिता आसीत् । एषा सभा चविशुद्धसस्कृतभाषामाध्यमेनैव प्रचलति । प्रतिपर्यायं त्रयश्चत्वारो वा वक्तारः सभायां कल्पिताः सन्ति । शास्त्रीयविषयेष्वेव विदुषां व्याख्यानं भवति । विषयोपस्थापनं,तत्र क्रियमाणाः प्रश्नाश्च संस्कृतभाषामाध्यमेनैव भवतीति सभाया वैशिष्ट्यम् ।
वृहस्पतिवासरे सम्पन्नायामुक्तसभायां च द्वाभ्यां व्याख्यातृभ्यां उपप्रा.श्रीरामप्रसादपौडेल–सुदर्शनगौतमाभ्यां च शाास्त्रगतमेकैकं विषयमादाय वाक्यार्थः प्रस्तुत आसीत् ।
उपप्रा.श्रीरामप्रसादपौडेलमहाभागेन न्यायदर्शनान्तर्गतस्य सिद्धान्तलक्षणग्रन्थोक्तव्याप्तिलक्षणमादाय शास्त्रीयं व्याख्यानं समुपस्थापितमासीत् चेत् आचार्यपदवीकेन वैयाकरणेन श्रीसुदर्शनगौतमहाभागेन च अर्थवदधातुरप्रत्ययप्रातिपदिकमिति सूत्रघटकपदानां शास्त्रीयो विचारः समुपस्थापित आसीत् । अन्ते च तत्रत्यैरेव श्रीस्वामिवर्यैः विद्वन्मूर्धन्यैः डा.पुरूषोत्तमाचार्यस्वामिवर्यैः रसगंगाधरग्रन्थदृशा काव्यलक्षणमादाय स्वीयं व्याख्यानं च प्रदत्तमासीत् ।
एषा च सभा गतवर्षस्य माघमासप्रभृति प्रतिमासं तत्रत्यमठाधीशानां श्रीमहन्तस्वामिनां पावन्या प्रेरणया पद्मावतीसहितस्य श्रीवेंकटेशभगवतोऽनुकम्पया च श्रीभगवद्रामानुचार्यस्य जन्मनक्षत्रमधिकृत्य प्रवर्तमाना वर्तते । प्रतिसभं च नैकविदुषां, छात्रवर्गाणां च पावनं सान्निध्यं तत्र जायमानमस्ति ।
सभायाः संचालनं, स्वागतभाषणं (प्रकल्पोद्देश्यनिरूपणसहितं) च श्रीपुरूषोत्तमाचार्यस्वामिवर्यैः विहितमासीत् ।