निर्वाचनायोगस्य प्रणाल्यामद्य मध्याह्नकालपर्यन्तं प्रविष्टस्य तथ्यांकस्यानुसारम् १,५३,००२ संख्यायां जनानां प्रत्याशित्वेन मनोनयनं संजातं वर्तते ।
तदनुसारं प्रमुखपदे ३,५१० जनाः, उपप्रमुखपदे च २१६८ उपाध्यक्षपदे २४१४ वडाध्यक्षपदे ३५,३५३ महिलासदस्ये २६,५३२ दलितमहिलाससदस्ये २३,९३१ सदस्ये च ५५,७२० जनानां मनोनयनं जातं वर्तते इति आयोगेन ज्ञापितमस्ति ।
इदानीं यावत् १,७७,७५००० मतपत्राणां सज्जता जाता वर्तते इति च आयोगेन ज्ञापितमस्ति । स्थानीयनिर्वाचनस्य दिने शुक्रवासरे च सार्वजनिकावकाशप्रदानाय च मुख्यसचिवमाध्यमेन सर्वकारोऽनुरूद्ध्यते इति च निर्णयो विहितो वर्तते ।
साकमेव वैशाखमासस्य अष्टाविंशतिदिवसात् त्रिंशद्दिवसपर्यन्तं येषां विद्यालयानां मतकेन्द्रत्वेन उपयोगकरणाय निर्णयो विहितो वर्तते ।
तत्र छात्रछात्राणां भौतिकोपस्थित्यकरणाय एवं वैकल्पिकपद्धत्या च तदानीं पठनपाठनसंचालनकरणाय च तथाविधव्यवस्थापनार्थं मुख्यसचिवमाध्यमेन सर्वकाराय अनुरोधः करिष्यते इति च निर्णयः जातो वर्तते इति चायोगेन ज्ञापितमस्ति ।