रविवासरे रक्षाबन्धनपर्वणि विश्वसंस्कृतदिवसमूलसमारोहसमित्या वाल्मीकिविद्यापीठस्य प्रेक्षालये द्विविधोपस्थित्या अर्थात् कतिपयानां साक्षादुपस्थित्या कतिपयानां जूमतन्त्रमाध्यमेन च समुपस्थितिं सम्पाद्य भव्यरूपेणायं दिवसः सम्पन्नो कृतोऽस्ति ।
संस्कृतं केवलं भाषा नास्त्यपितु सा जीवनपद्धतिरप्यस्ति, अतोऽस्य ज्ञानं सर्वेषां कृते अपरिहार्यमस्तीति तदनुरूपमेवास्माभिः संस्कृतस्य ज्ञानाय प्रचाराय च यत्नो विधेय इति प्रायस्तत्र समुपस्थिताः सर्वे वक्तारोऽवदन् । संस्कृतस्य ज्ञानं विना संस्कारोऽपि न सेत्स्यतीति संस्कारवत्वसम्पादनाय किं वा नैतिकत्वमाविष्करणाय चेदानीं सर्वत्र संस्कृतस्य पठनं पाठनं च बाहुल्येन सम्पादनीयं भवतीति धिया ऐषमोऽपि वर्षेऽयं संस्कृतदिवसकार्यक्रमः सर्वैः सम्भूय सम्मानितः ।
अयं च कार्यक्रमो नेपालदेशे २०७५तमवैक्रमाब्दतो जरोकिलोप्रतिष्ठानस्य मुख्यसंयोजकत्वे अन्यानि च संस्थानानि संयोज्य प्रारब्धो जात आसीत् । अस्मिन् च वर्षे नेपालसंस्कृतविश्वविद्यालयः, त्रिभुवनविश्वविद्यालयान्तर्गतसंस्कृतकेन्द्रियविभागः एवं त्रिचन्द्रविद्यपीठान्तर्गतदर्शनशास्त्रम् एवं मनोविज्ञानविभागः, जयतु संस्कृतम्, सतातनधर्ममहासंघः, सहृदयता इन्टरनेशनल अमेरिका, विश्व हिन्दू भूटानी संघः, नेपालीहिन्दूफोरम एवं जरोकिलो प्रतिष्ठानमित्येतेषामायोजकत्वेऽयं कार्यक्रमः सम्पन्नो जातः । कार्यक्रमस्य प्रारम्भो दीपप्रज्वालनेन सह श्री उपप्रा माधवघिमिरेवर्यस्य वैदिकमंगलाचरणपुस्सरं जात आसीत् । कार्यक्रमेऽस्मिन् प्रमुखातिथिपदमलंकुर्वद्भिः सम्पूर्णानन्दविश्वविद्यालस्य कुलपतिचरैः प्रो राजारामशुक्लमहाभागैः जूमतन्त्रमाध्यमेनोक्तं यत्– वयमप्यत्र भारते विविधकार्यक्रममाध्यमेन संस्कृतदिवसं पुरस्कुर्वन्तः स्मः, यतो हि संस्कृतेन विनाऽस्माकं भारतीया संस्कृतिर्न सेत्स्यति । अस्माकं संस्कृतिः गभीरं ज्ञानं च संस्कृतभाषानिबद्धेषु शास्त्रेषु वर्तते, तस्य बहिस्फोटः संस्कृतविद्वद्भिरेव कर्तव्यो भवति । संस्कृतशास्त्रेष्वन्तर्निहितस्य ज्ञानस्यैकांशो भाग एवेदानीं बहिरागतो वर्तते इत्यादि सर्वं वदन् उभयोर्देशयोः संस्कृतिरेकैवास्तीति नेपालपक्षतोऽपि प्रतिवर्षमयं संस्कृतदिवसः समाचर्यमाणो वर्तत इति ज्ञात्वा मे चेतः मोमुद्यते इत्युक्तम् ।
तथैव विशिष्टातिथिपदमलंकुर्वद्भिर्नेपालसंस्कृतविश्वविद्यालयस्य उपकुलपतिश्री प्रा डा यादवप्रकाशलामिछानेमहाभागैः संस्कृतं भाषामात्रं नास्ति अपितु सा जीवनपद्धतिरपि अस्त्युक्तम् । समग्रोऽपि समाजः संस्कृतस्योर्जयोज्जिवितोऽस्तीति बसुधैव कुटुम्बकम्, सर्वे भवन्तु सुखिनः इत्यादिभावनाऽनेनैव सर्वत्र प्रदीप्ता वर्तत इत्युक्तम् ।
एवमेवातिथिरूपेणैव साक्षात्तत्र समुपस्थितो नेपालसंस्कृतविश्वविद्यालयस्य शिक्षाध्यक्षो प्रा डा भीमखतिवडावर्योऽपि नेपााले अयं संस्कृतदिवसो विश्वसंस्कृतदिवसरूपेण यदा मानितस्तदैव भारतादिदेशेष्वपीदानीमयं दिवसो विश्वसंस्कृतदिवसरूपेणैव मन्यमानोऽस्तीति हर्षः प्रकटितः। पुनश्च संस्कृतस्य प्रवर्धनाय युवानोऽग्रे आगन्तव्या इत्याद्युक्तम् । अन्ये च विशिष्टवक्तारो यथा त्रिभुवनविश्वविद्यालयस्य संस्कृतकेन्द्रियविभागस्य अध्यक्षः प्रा डा नारायणप्रसादगौतमः, सनातनधर्ममहासंघस्य उपाध्यक्षो डा माधवप्रसादपाण्डेयवर्यः, जैनमुनिः डा मणिभद्रमहाराजः, जयतुसंस्कृतमित्यस्य महासचिवो नवराजकट्टेलआदिभिरपि स्वकीयं मन्तव्यं तत्र समुपस्थापितम् । एवमेव दाङ्मण्डलात् डा रघुनाथनेपालवर्येण ज्ञानविज्ञानयोर्मिथः परिपूरकत्वमिति विषयमादाय, वाल्मीकिविद्यापीठत एव डा मुकुन्दलामिछानेवर्येण संस्कृतसाहित्यस्येतरभाषासाहित्येषु प्रभाव इति विषयमादाय, डा नीलकण्ठ पौडेलवर्येण संस्कृतवाङ्मयमादाय चाभिभाषणं कृतमासीत् । सुष्मितापोख्रले अप्सराघिमिरे उभाभ्यां च भगवद्गीतायाः पाठेन कार्यक्रमोऽयं आनन्दमयः सम्पादित आसीत् । विश्वसंस्कृतकार्यपरिषदोऽध्यक्षगोविन्दशरणोपाध्यायवर्यस्य स्वागतमन्तव्येन सह अन्ते च जरोकिलोप्रतिष्ठानस्य संकल्पकत्र्रा श्री डा निर्मलमणिअधिकारिवर्येण चागामिसंस्कृतदिवसं यावदेकं संस्कृतलघुचलचित्रनिर्माणपुस्सरमागामिवर्षेभ्यः संस्कृतक्षेत्रे स्वकीयं महद्योगदानं दत्तवद्भ्यो जनेभ्यः सम्मानस्वरूपं पुरस्कारप्रदानात्मककार्यकरणं च स्वस्य लक्ष्यमस्तीति संवदता तेन स्वीयाध्यक्षीयभाषणेन कार्यक्रमं समापयन् आकाशनीलं (गोविन्द)एवं विमलचन्द्रदाहलवर्यर्योः संचालकत्वे, बहूनां जनानां समुपस्थितौ चायं कार्यक्रमो भव्यरूपेण सम्पन्नो जातः ।