स्वदेशे एव सम्पत्स्यमानायाः पुपुवान्युगिनीविरुद्धाया एकदिवसीयक्रिकेटक्रीडाया अथ च त्रिदेशीय टी–२० श्रृंखलायाः कृते नेपालिक्रिकेटक्रीडकानां भिन्नो भिन्न एव समूहो निर्धारितो वर्तते । प्रशिक्षकपुबुदुदासनायकेद्वारा चिते उक्तसमूहे पंचदश क्रीडकाः सन्ति । परन्तु उक्तसमूहे विनोदभण्डारिज्ञानेन्द्रमल्लौ च स्वीयं स्थानं संरक्षयितुं नैव अशक्नुताम् ।
नेपालस्य कीर्तिपुरस्थिते त्रिविक्रिकेटरंगशालायां सम्पत्स्यमाना उक्तक्रिकेटक्रीडा चैत्रमासस्य एकादशदिनांकात् एकविंशतिदिनांकं यावत् तदनुसारं मार्चमासस्य पंचविंशतिदिनांकात् अप्रिलमासस्य चतुर्थदिनांकं यावत् प्रचलिष्यति ।
नेपालेन त्रिदिवसीयश्रृंखालातः पूर्वं पपुवान्युगिनीदेशेन सह एकदिवसीयक्रिकेटक्रीडा च क्रीडिष्यते ।
एकदिवसीयश्रृंखलायाः कृते चायं समूहो वर्तते–
सन्दीपलामिछाने,(क्रीडकनेता) आरिफशेखः, कुशलभूर्तेलः, सोमपालकामी, दिपेन्द्रसिंहऐरी, सागरढकालः कमलसिंहऐरी, अनिलशाहः, विक्रमशोवः, सुसनभारी, रोहितपौडेलः, पवनसर्राफः देवखनालः, गुल्शनझा, भीमसार्की,
टी–२० श्रृंखलायां च –
सन्दीपलामिछाने, (क्रीडकनेता) आरिफशेखः, कुशलभूर्तेलः, सोमपालकामी, दिपेन्द्रसिंहऐरी, सागरढकालः कमलसिंहऐरी, आशिफशेखः, करणकेसी, अविनाशबोहरा, विवेकयादवः दिलीपनाथः, लोकेशबमः, कुशलमल्लः आदिलअन्सारी ।
ज्ञानेन्द्रमल्लविनोदभण्डारिभ्यां च विश्रामार्थमवसरः प्रदत्तो वर्तते इति नेपालक्रिकेटसंघस्य कार्यवाहकाध्यक्षेण प्रशान्तमल्लेन उक्तम् ।