प्रतिनिधिसभाऽन्तर्गतार्थसमित्या नेपालधितोपत्रसंस्थानस्य भीष्मराजढुंगानानाम्नेऽध्यक्षाय एवं धितोपत्रमापनसूचक(नेप्से)संस्थानस्य कार्यकारिप्रमुखाय चन्द्रसिंहसाउदाय च यथाशीघ्रं निष्काशनं कर्तव्यमित्यर्थमन्त्रालयो निर्दिष्टोऽस्ति । सर्वोत्तमसिमेन्टप्रकरणे स्वीयपदीयमर्यादाविपरीतं गोल्डेनशेयरक्रयणरूपं यत्कार्यं ताभ्यां साक्षात्परम्परया वा विहितमस्तीति या वार्ता सप्रमाणं बहिः संचारमाध्यमेष्वागता वर्तते तस्य यथाशीघ्रं सत्यतथ्यनिरूपणपूर्वकमनुसन्धानं च विधाय ताभ्यां दण्डश्च देय इति शुक्रवासरे सिंहप्रासादे उपविष्टार्थसमित्याऽर्थमन्त्रालयो निर्दिष्टोऽस्ति । अनुसन्धानात्मकार्ये सहजत्वसम्पादनाय तौ द्वावपीदानीमेव तत्पदेभ्यो निष्काशनीयाविति चार्थमन्त्री निर्दिष्टः ।
स्वीयपदीयमर्यादाविपरीतं भीष्मराजेन स्वस्य पुत्र्या नाम्ना एवं चन्द्रसिंहसाउदेन च स्वपत्न्या नाम्ना सहस्राधिकसंख्यायामुक्तसंस्थायाः गोल्डेनशेयरक्रयणं कृतमासीदिति समाचारः प्राप्त आसीत्, तदनन्तरं चार्थसमित्या तौ आहूय तद्विषयकानुसन्धानमपि कृतमासीत् । तत्र चोभाभ्यामप्युक्तं यत् – तत्तत्नाम्ना तस्य क्रयणं जायमानमस्तीति पदीयमर्यादाविपरीतमस्माकं गमनं नास्तीति । परन्त्वत्रार्थसमितिः तयोर्नियमविपरीतमेव गमनमस्तीति विषये दृढविश्वस्ता वर्तते । तदनुरूपमेव च शुक्रवासरे सिंहप्रासादे चोपविष्टे तस्मिन्नुपवेशेऽर्थमन्त्रालयो निर्दिष्टोऽस्ति ।
वित्तव्यवस्थापकसंस्था(नेपालधितोपत्रसंस्थान)नस्य विकासाय तस्य स्थायित्वसम्पादनपूर्वकं तत्र स्वच्छता, पारदर्शिता, सदाचारः, नैतिकता चावश्यकी भवतीति तदनुरूपमेव तत्र सर्वैरुच्चपदस्थाधिकारिभिः भाव्यम्, मन्त्रालयेन च तदनुकूलत्वसम्पादने च मध्ये मध्ये प्रेरणा प्रदातव्येति चार्थसमित्योक्तम् ।
अर्थमन्त्रिजनार्दनशर्मणाऽपि ताभ्यां संस्थाभ्यां क्रियमाणकार्ये नियमनं कृत्वा तस्य सम्यग्रीत्या व्यवस्थापने दायित्वं चार्थमन्त्रालयस्यैवास्तीति एतद्विषये यदा संचारमाध्यमेषु विभिन्ना वार्ताऽगता तदाऽस्य मन्त्रालयस्य ध्यानं तत्र गतमस्तीति उक्तम् । इदानीं तत्संस्थानस्थपदाधिकारिभिरेव नियमविपरीतं कार्यं कृतमस्तीति न वेति निर्णयार्थमस्मत्पक्षतोऽपि एका विशिष्टा समितिः निर्मिता वर्तत । सा समितिर्यत्प्रतिवेदनं प्रस्तौति तदनुरूपमेव च मन्त्रालयोऽगे्र गच्छतीत्युक्तम् । जनानां धनं शेयरव्यापारेऽपगतं भवतीति वा चिन्ताऽस्माकमपि वर्ततेऽतः तेषां पदाधिकारिणां क्रियाकलापानां सामस्त्येनाध्ययनं विधाय सर्वोतमसिमेन्टसम्बन्धिविषये इयं समितिः पुनरध्ययनं करोति, समग्रतयाऽध्ययनं कृत्यैवाग्रे स्वस्य दायित्वमयं मन्त्रालयो निर्वहिष्यतीत्युक्तम् ।
तत्र पूर्व–अर्थमन्त्रिसुरेन्द्रपाण्डेयेनाऽपि उक्तं यत् – इदानीं शेयराख्यव्यापारस्य वर्धनं यया रीत्या प्रतिदिनं जायमानं दृश्यते तत्स्वाभाविकं वाऽस्वाभिकमस्य विशेषतोऽनुसन्धानं कर्तव्यं भवति अर्थमन्त्रालयेन, कोरोनाकारणादन्यत्र व्यवसायस्याभावेन प्रायो जना अस्मिन् शेयरव्यापारे केन्द्रिता सन्तीत्यत्र संस्थितैः पदाधिकारिभिः नियमानुकूलमाचरणं कृतमस्ति न वेत्यपि चानुसन्धानस्य विषयोऽस्ति, अन्यथा जनानां धनं सर्वमपगतं भवेदिति चिन्ता प्रकटिता ।