नेपालसर्वकारस्य स्वामित्वे संस्थितनेपालवैंकवित्तीयसंस्थया कर्मचारिणां स्थायिपदपूर्तिनिमित्तकम् आवेदनपूरणायआह्वानं विहितमस्ति । लोकसेवायोगस्य सहमतौ ३०३ संख्यायां कर्मचारिणां स्थायिपदपूर्तिनिमित्तकमुक्तसंस्थया आवेदनपूरणाय आह्वानं कृतमस्ति ।
सहायकप्रबन्धकपदस्य कृते ६२जनानां, सहायकपदे १०५ जनानां कनिष्ठसहायकपदे ९१ जनानां स्थानं परिकल्पितमस्ति । एवमेव सहायकप्रबन्धकपदे ५६, सहायकप्रबन्धक(सीए)पदे २, सहायकप्रबन्धक (आईटी) पदे ४ संख्यायामाह्वानं विहितमस्ति ।
उक्तसंस्थया सहायकपदे कनिष्ठसकहायकपदे च निर्धारितसंख्यायां प्रदेशगतारक्षणव्यवस्था कृता वर्तते । आदेशं १४८ संख्यायां सहायकपदेषु आह्वानं विहितेषु प्रथमद्वितीयप्रदेशयोः ३१–३१ जनाः, बाग्मतीप्रदेशे ५१, गण्डकीप्रदेशे १०, लुम्बिनीप्रदेशे २१, कर्णाली–सुदूरपश्चिमप्रदेशयोश्च २–२ संख्यायामाह्वानं विहितमस्ति ।
कनिष्ठसहायकपदस्य कृते आहत्य ९१ संख्यासु प्रथमप्रदेशे १६्र, मधेशप्रदेशे १५, वाग्मतीप्रदेशे २७, गण्डकीप्रदेशे १२, लुम्बिनीप्रदेशे ११, कर्णालीप्रदेशे ५, सुदूरपश्चिमप्रदेशे च ५ संख्यायामाह्वानं विहितमस्ति ।
योग्यैः प्रतिभागिभिः चैत्रमासस्य दशमदिनांकं यावत् आवेदनं पूरयितुं शक्यते इति सूचितमस्ति ।