शिवस्य रात्रिः शिवरात्रिरिति व्युत्पत्यनुरोधेन कल्याणप्रदरात्रित्वेन एषा रात्रिरवगन्तव्या भवति । तत्रापि रात्रौ महत्त्वविशेषणात् अत्यन्तोत्कृष्टफलप्रदा एषा रात्रिरिति फाल्गुनमासस्य कृष्णचतुर्दश्यां समागता एषा रात्रिर्महाशिवरात्रिरिति नाम्ना व्यपदिष्टा वर्तते इति विज्ञा वदन्ति ।
भगवतः शिवस्य प्रियतमं दिनमिदमस्तीति सामान्यरूपेण अस्माभिरवगन्तव्यम् । चन्द्रमासानुसारेण चतुर्दशो दिवसो भगवतः शिवस्य दिवसो मन्यते । अत एव उक्ततिथेः स्वामी भगवान् शिव इत्युच्यते । अर्थात् चतुर्दश्यां तिथौ समागता रात्रिः भगवतः शिवस्य रात्रिर्भवति । तदनुसारं शिवरात्रिश्च प्रतिपक्षमागच्छति । शिवोपासनार्थं एषा रात्रिरत्युत्तमा भवतीति विश्वासो वर्तते ।
शिवतत्वं संहारकतत्वमत एव तमःप्रधानमिति शास्त्रेषु वर्णनादपि कृष्णपक्षस्य चतुर्दशीतिथये भगवतः शिवस्य प्रियतमदिनरूपेण स्वीक्रियते दिनमिमम् ।
महाशिवरात्रिदिवसाय निराकारस्वरूपस्य शिवस्य साकाररूपत्वेन अवतरणदिवसरूपेण, शिवपार्वत्योः मेलनदिवसरूपेण, सृष्टिकर्तुः व्रह्मणो रूद्ररूपेण शिवतत्वस्य अवतरणदिवसरूपेण च तत्र तत्र उल्लेखः कृतोस्तीति तद्दृष्ट्यापि अस्या रात्रेर्महिमा सर्वाधिको वर्तते ।
शिवरात्रेः महिमगानरूपाः तादृशा आख्यायिकाः कथाः च पुराणेषु यत्र तत्र बहुशः प्राप्यन्ते । तेषां सर्वेषामपि एकमेव तात्पर्यं यत् एषा रात्रिः शिवतत्वोपासकानां कृते अत्यन्तं महनीया अस्ति अतः सर्वैः साधकैः विशेषतः अस्यां रात्रौ सविधि शिवाराधनं विधाय कालक्षेपो विधेयः । अनेन साधकानां जीवनमपि सार्थकं भवति ।
एकस्मिन् वर्षे चतस्रो विशिष्टा रात्रयो भवन्ति । कालरात्रिः सुखरात्रिः मोहरात्रिः शिवरात्रिश्चेति । हिन्दूपरम्परायां एतासां चतसृणामपि रात्रीणां विशिष्टं महत्वं वर्तते । शक्तेरुपासकानां कृते कालरात्रिः विशिष्टं महत्वं विभर्ति या च नवरात्रपर्वणि आश्विनशुक्लाष्टम्यां समागच्छति । कृष्णस्योपासकानां कृते मोहरात्रिः विशिष्टं महत्वं धत्ते या च कृष्णजन्माष्टम्यां भाद्रमासे आगच्छति । दिपावलीपर्वणि च सुखरात्रिः समागच्छति या च धनधान्यादिवैभवप्रदात्र्या लक्ष्मीदेव्या उपासकानां कृते सा रात्रिः विशिष्टं महत्वं विभर्ति । चतुर्थी च एषा रात्रिः महाशिवरात्रिः या च शिवोपासकानां कृते विशिष्टं महत्वं धत्ते ।
हिन्दूधर्मावम्बिभिरेतत् महाशिवरात्रिपर्व विशेषरूपेण मान्यते । अस्मिन् दिने काष्ठमण्डपस्थपशुपतिमन्दिरे भगवतः पशुपतेः दर्शनार्थं श्रद्धालूनां महान् जनसंमर्दो भवति । देशस्य विभिन्नकोणतः विशेषतो भारतदेशतो बहवो श्रद्धालवोस्मिन् अवसरे पशुपतिमन्दिरं समागच्छन्ति । गते वर्षे कोरोनाप्रकोपकारणात् महदहर्षोल्लासपूर्वकमेतत् पर्व जनैः नैव सम्मानाय अवसरः प्राप्तमासीत् परन्तु अस्मिन् वर्षे च श्रद्धालूनामुपस्थितिरपि अधिका वर्तते ।
अतः तदनुकूलमेव व्यवस्थापनं पशुपतिविकासकोषेनापि विहितं वर्तते । अस्मिन् वर्षे समग्रं पशुपतिपरिसरमेव विशिष्टरूपेण विभिन्नधार्मिकचित्रादीनां भित्तौ टंकनादिद्वारा प्रवेशद्वारादिषु च पुष्पगुच्छादिद्वारा विशिष्टतया अलंकृतं विशिष्टीकृतं च वर्तते । तेन च मन्दिरस्य सौदर्यमत्यधिकरूपेण संवर्धितमस्ति ।