भारतस्य हैदरावादनगरे संजातस्य रामानुजाचार्यस्य समतामूर्तेरनावरणकार्यक्रमस्य अद्य बृहस्पतिवासरे अष्टमो दिवसोऽस्ति । श्रीरामानुजाचार्यः श्रीवैष्णवसम्प्रदायस्य आचार्यो वर्तते । तस्मै च विद्वांसः शेषावताररूपेण परिचिन्वन्ति । एकसहस्रवर्षपूर्वं इह भूतले जनिं प्राप्य श्रीरामानुजाचार्येण तादृशं महनीयं कार्यं कृतमासीत् यत् कैश्चित् महापुरूषैरेव तादृशं कार्यं सम्पादयितुं शक्यते ।
श्रीरामानुचाजार्येण प्रदत्तायाः समतामूलकशिक्षायाः प्रचारप्रसारोऽत्यधिकरूपेण भवतु, यस्याश्च एकविंशतौ शताब्द्यां तु इतोऽपि प्रासड्गिकत्वमपि वर्तते इति मत्वा श्रीरामानुजाचार्यस्य सहस्राब्दीमहोत्सवस्य भव्यरूपेण सम्माननसन्दर्भे तत्रत्यैः दाक्षिणात्यैः श्रीवैष्णसम्प्रदायस्य चिन्नाजीयरस्वामिभिरयं प्रकल्पः प्रकल्पित आसीत् । तस्यैव साकाररूपोऽयं कार्यक्रम इदानीं भव्यरूपेण सम्पन्नचरणे अग्रसरो जायमानोेऽस्तीति द्रष्टुं शक्नुमो वयम् ।
कार्यक्रमेऽस्मिन् पंचत्रिंशदुत्तरैकशतश्रीलक्ष्मीनारायणमहायज्ञोऽपि समनुष्ठीयमानो वर्तते । कोट्यधिकसंख्यायां मूलमन्त्रस्य अनुष्ठानमपि तत्र समनुष्ठीयमानमस्ति ।
सर्वत्र सर्वेषु समभावेनैव द्रष्टव्यम्, सर्वे जीवाः समानाः, अत उच्चनीचभावनां दूरीकृत्य केवलं जनानां श्रद्धां कार्तज्ञं च पश्यन् तदनुकूलव्यवहार आचरणीयः, जन्मसिद्धजातिव्यवस्थां गौणीकृत्य कर्मणो ज्ञानस्य च प्राधान्यं द्रष्टव्यमिति या श्रीरामानुचार्यस्य भावना आसीत् सा अत्यन्तं श्रेष्ठा आसीदिति भक्तिसम्प्रदायस्य प्रवर्तकमाचार्यममुं बाह्या जना अपि बहु प्रशंसन्ति ।
एषा रामानुजाचार्यप्रदत्तशिक्षा सर्वत्र भूतले व्याप्नुयादिति सदिच्छया तत्रत्यैः चिन्नजीयरस्वामिभिः समतास्फूर्तेः केन्द्रस्य रूपेण तं स्थानं परिकल्य श्रीरामानुजाचार्यस्य समतासन्देशप्रवाहकविशालमूर्तेः निर्माणं अकारि । कार्यक्रमं सम्बोध्य च स्वामिचरणैरुक्तमस्ति यत्– अस्या मूर्ते नाम समतामूर्तिरिति परिकल्पितमस्ति । समानतासांस्कृतिकस्य प्रतीकरूपेणैव अस्याः मूर्तेः निर्माणं कृतमस्ति । आचार्यश्रीरामानुजेन लोके विद्यमानां साामाजिक–असमानतां दूरीकृत्य वसुधैव कुटुम्बकमिति अस्य श्रौतसिद्धान्तस्य सन्देशः तदानीन्तनीयविषमपरिस्थितावपि प्रदत्त आसीत् इति नूनं लोककल्याणाय कियान् व्यग्रचित्त स इति तस्य अन्यविविधक्रियाकलापानां चोदाहरणरूपेण समुद्धृत्य अस्य मूर्तिनिर्माणस्य सार्थकत्वं आवश्यकत्वं व्यक्तीकृतमस्ति ।
एषा च मूर्तिः विश्वस्यैव षड्िवंशतितमसर्वोन्नतमूर्तिरस्तीति उच्यमानमस्ति । यस्य परिमाणं च २१६ फिटपरिमितमुच्च्चतरमस्ति । अस्या मूर्तेरनावरणं च भारतदेशस्य सम्माननीयप्रधानमन्त्रिनरेन्द्रमोदिना फेब्रुवरीमासस्य पंचमदिवसे कृतमासीत् ।
मूर्तेरेव परिसरे अष्टोत्तशतं दिव्यदेशानां निर्माणं च विहितमस्ति । वैष्णवसम्प्रदायानुसारं भगवतो नारायणस्य अष्टोत्तरशतमवतारा मन्दिराणि च सन्तीति मान्यता वर्तते । तदनुसारमेव तस्मिन्नेव परिसरे तावत्संख्यायां दिव्यदेशानां प्रतीकस्वरूपतया तेषां निर्माणमपि विहितमस्ति ।
तत्र रामानुजाचार्यस्य जीवनवृत्तप्रदर्शकं तादृशं स्मृतिचिह्नमपि (गैलरी) संस्थापितमस्ति । पुस्तकालयस्य व्यवस्था विशिष्टकार्यक्रमनिमित्तकं च बृहत्सभाकक्षादीनां च निर्माणं तत्र विहितमस्ति ।
देशस्य विभिन्नकोणेभ्यो जनानां तत्र समुपस्थितिः समुल्लसति । देशान्तरेभ्यश्च जनानां भक्तभागवतानां च तत्र बाहुल्येनोपस्थितिं द्रष्टुं शक्नुमः ।
फेब्रुवरीमासस्य तृतीयदिनांकात् प्रारब्धस्यास्य कार्यक्रमस्य समापनं च तस्यैव मासस्य षोडशे दिनांके भविता ।