माघशुक्लपंचमीतिथेरपरं प्रसिद्धं नाम वसन्तपंचमी श्रीपंचमी वा अस्ति । अस्मिन् वर्षे च माघमासस्य त्रयोविंशतौ दिनांके श्रीपंचमी÷वसन्तपंचमी पर्व वर्तते ।
वसन्तरागश्रवणात् श्रियमाप्नोत्यभिप्सिताम् इति कथनानुसारं शैत्यस्य क्रमश उत्तरोत्तरं ह्रासः, वासन्तिकसमयस्य क्रमशः प्रारम्भोऽस्मात् दिनात् भवतीति हेतोर्दिनमिदं सर्वोत्कृष्टं मन्यते । श्रीसरस्वतीदेव्या कृते इदं दिनं प्रियमस्ति । अत एव इदं च दिनमक्षरारम्भस्य कृते उत्तमं भवतीति विश्वासो वर्तते ।
उत्तरायणकालो हि विद्यायाः कृते उपयुक्तः कालो भवतीति प्राचीना रिषिमुनयश्च सर्वमपि उत्तरायणकालं वेदाध्ययनकालत्वेन स्वीकुर्वन्ति स्मः । तत्रापि विशेषतो ये अध्ययनस्य आरम्भं कुर्वन्ति तेषां कृते श्रीपंचमी उत्तमः कालो मन्यते । अतोऽस्माद् दिनादेव इदानीमपि लघुबालकानां कृते अक्षरारम्भकरणपरम्परा वर्तते लोके ।
ये च पठन्तः सन्ति तेऽपि अस्मिन् दिने विभिन्नं मांगलिकं कार्यं कुर्वन्तो विद्याधिष्ठात्रीसरस्वतीेदेव्याः सविधि पूजनादिकं कुर्वन्ति । अज्ञानरूपान्धकारस्य नाशिकायाः शुक्लवस्त्रयुतायाः ज्ञानस्वरूपायाः हस्ते वीणापुस्तके च गृहीतवत्याः हंसतुल्यनीरक्षीरविवेककरणसामथ्र्यंं च प्रदात्र्याः अभयमुद्रायां विद्यमानायाः सर्वमंगलप्रदायाः श्रीसरस्वतीदेव्याः तादृशीमेव मनोहरां मूर्तिं मनसि प्रकल्य
या कुन्देन्दुतसारहारधवला या शुभ्रवस्त्रावृता, या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रहाच्युतशंकरप्रभृतिभिः देवैः सदा वन्दिता, सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ।।
सरस्वती मया दृष्टा वीणापुस्तकधारिणी । हंसवाहनसंयुक्ता विद्यादानं करोतु मे ।।
इत्यादिभिः श्लोकैश्च विद्यालयेषु विद्यार्थिभिरेकत्रीभूय सरस्वतीवन्दनापूर्वकं तस्याः चित्रपटे पत्रपुष्पफलादिकं च समप्र्यते । ततोऽस्माकं हृदि सदैव सरस्वतीदेव्याः वासो भवतु, सा चास्मभ्यं विद्यादानं च करोतु इति च संप्राथ्र्यते । एवंविधरूपेण श्रीविद्याधिष्ठात्रीदेव्याः पूजनेन चागामी सर्वोऽपि कालः तत्कृपया मंगलप्रदो भवति, अध्ययने च रुचिर्भवतीति जनविश्वासो वर्तते ।