प्रधानमन्त्री शेरबहादुरदेउवा जलप्लवभूस्खलनयोः कारणेन प्रभावितानां सुदूरपश्चिमस्थितानां पञ्चजनपदानां निरीक्षणं कृतवान् । आश्विनमासस्य ३१ दिनाङ्कतः अविरलवर्षायाः कारणात् जातानां क्षतीनां वस्तुतथ्यज्ञानाय मन्त्रिसहितः पूधानमन्त्री देउवा सुदूरपश्चिमाञ्चलं प्राप्तवान् आसीत् । परन्तु जालप्लावन–भूस्खलनपीडितैः सह प्रधानमन्त्रिणः मेलनं न अभवत् ।
प्रधानमन्त्रिणः आगमनस्य सूचनया जनता हर्षिता आसन् ।
परन्तु अशया, निर्भरतया च पूतीक्षायां जलप्mवभूस्खलनेन पीडिता जनाः प्रधानमन्त्रिणा साकं मेलनस्यावसरं नैव लब्धवान् अथ च ते दुःखिताः आक्रोशिताश्च बभुवुः । ‘जनतानां दुःखदर्दबोधनाय प्रधानमन्त्रिणः आगमनस्य समाचारेण जलप्लवपीडिताः जनाः दुःखं विस्मृत्य आनन्देन मनः भरितः आसीत्, परन्तु ‘आदिनं प्रतीक्षां कृत्वापि प्रधानमन्त्री न आगतवान्, अतः अधुना वयं निराशान्विताः स्मः’ इति बझाङमण्डलस्य थलाराग्रामपालिकायाः अशोक–उपाध्यायः कथयति ।
तस्य आरोपः अस्ति ‘प्रधानमन्त्री जनतानां पीडां बोद्धुं जनपदभ्रमणे समागतवान्, परन्तु जनताभिः साकं अमिलित्वैव निवृत्तवान्, अनेन राज्यकोषस्य दुरुपयोगः कृतः । जनता दुःखे निमग्नाः सन्ति, प्रधानमन्त्री हेलिकप्टरयानेन जनतानाम्नि भ्रमन् अस्ति । जनपदस्य मुख्यालयात् या सूचना प्राप्यते सा तु काष्ठमण्डपे स्थित्वा एव प्राप्तुं शक्यते स्म ।’
प्रधानमन्त्रिणः हेलिकप्टरयानेन आकाशभ्रमणं दृष्ट्वा जनाः ‘प्रहसनस्य सञ्चारो जातः’ इति कथयन्ति । बझाङजनपदस्य मुख्यालये क्षणं स्थित्वा थलाराग्रामपालिकायां गमनस्य कार्यक्रमः आसीत्, प्राविधिककारणात् तत्र हेलिकप्टरयानं अवतरितुं न प्राभवत् इति प्रमुखजनपदाधिकारी मोहन–अधिकारी असूचयत् ।
प्रधानमन्त्री देउवा बैतडीजनपदे अपि हेलिकपटरयानने क्षतेः निरीक्षणं कृतवान् । तत्र जनप्रतिनिधिभिः साकं मिलित्वा विमर्शं कृत्वा च डडेल्धुराजनपदं प्रस्थितवान् । तत्र २० कलापर्यन्तं स्थित्वा विमर्शं कृत्वा सम्बोधनं च विधाय ‘अस्माकं समस्या विषये काचित् व्यवस्था कृता, कतिपयसमस्यानाञ्च समाधानञ्च करिस्यते’ इति स अकथयत्, इति असूचयत् घनस्यामधामी ।
प्रधानमन्त्रिणः भ्रमणं डोटीजनपदतः प्रारम्भो जातः, तदनु बझाङ, बैतडी, डडेल्धुरा, अन्ते च कञ्चनपुरे विश्रामो जातः आसीत् । ततः एव जनपदेषु जलप्लवभूस्खलनाभ्यां या क्षतिः जाता तस्याः यथातथ्यं 1tवान् ।