गैर–आवासीय–नेपालिसंघस्य (एनआरएन) कार्यकालः सम्बर्धितः अस्ति । गैर–आवासीय–नेपालिसंघस्य गतशनिश्चरवासरे सम्पन्नेन उपवेशेन विधानस्य धारा १३ इत्यस्य उपधारायाः २ अनुसारं वर्तमानकार्यसमितेः कार्यकालः षड् मासं यावत् वर्धितुं निर्णयः विहितः वर्तते इति संघस्य सचिवः गौरीराजजोशी असूचयत् । कुमारपन्तस्य अध्यक्षतायां सम्पन्नेन जूमतन्त्रस्य उपवेशेन १० तमं महाधिवेशनं एवञ्च निर्वाचनं आगामिनोवेम्बरमासस्य ३० दिनाङ्के भविता इति निर्णितो वर्तते ।
इतः अग्रे सङ्घस्य महाधिवेशने प्रतिनिधिचयनस्य विषये विवादो जातः, अतः नेपालस्य परराष्ट्रमन्त्रालये अभ्यर्थनापत्रञ्च पञ्जीकृतम्, तदनु सङ्घस्य सर्वा अपि निर्वाचनप्रक्रिया अवरोद्धुं मन्त्रालयेन पत्राचारं विहितम् आसीत् । तदनु अक्टोबरस्य २३–२५ इति दिनाङ्के सम्पन्नमानं अधिवेशनं स्थगितम् ।
उपवेशेन महाधिवेशनस्य प्रतिनिधिविषये समायाता समस्या समाधानार्थं सङ्घस्य पूर्व–अध्यक्षस्य संयोजकत्वे एका स्वतन्त्रा समितिः अपि सङ्घटिता वर्तते । उपवेशे केन्द्रीय–पदाधिकारिणः, विमर्शकाराः, अन्ये च शताधिकाः सदस्याः स्वविचारान् स्थापितवन्तः । अध्यक्षपदस्य कृते वर्तमानकार्यसमितेः उपाध्यक्षः डा. बद्रीकेसी, रविनथापा, पूर्व–उपाध्यक्षः कुल–आचार्यश्च प्रत्यासिनः सन्ति ।
सङ्घस्य महासचिवः डा. हेमराजशर्मानुसारं सङ्घस्य महाधिवेशने प्रस्तुतये वार्षिकप्रतिवेदनं, आर्थिकप्रतिवेदनञ्च विधानानुसारं एकमासाग्रे एव सार्वजनिर्कौ जातौ स्तः ।
सङ्घस्य १० तमस्य महाधिवेशनस्य एवञ्च विश्वसम्मेलनस्य कृते ६४ देशानां त्रिसहस्राणि ५ शतानि प्रतिनिधिपात्राणि चयितानि सन्ति । सङ्घस्य विधानानुसारं इतः अग्रे एव राष्ट्रियसमितेः महाधिवेशनेन अन्ताराष्ट्रिय–समन्वय–परिषदः सदस्याश्च सञ्चयिताः आसन् । आगामिमहाधिवेशने निर्वाचनद्वारा क्षेत्रीयसंयोजकसहिताः ४८ पदाधिकारिणः निर्वाचिताः भविष्यन्ति ।