पूर्वराजः ज्ञानेन्द्रशाहः नेपाले प्रजातन्त्रं विना राजतन्त्रं, राजतन्त्रं विना प्रजातन्त्रं च न सान्दर्भिकम् इति कथितवान् । विजयादशम्याः पावनावसरे सर्वेभ्यः नेपालिभ्यः शुभकामनां सम्प्रेषयन् स एषः सन्देशः कथितवान् । सः ‘देशस्य तात्कालिक्या परिस्थित्या अस्मान् पृथक् एव दायित्वं निर्वोढुं बाध्यम् अकारयत् । तथापि प्रजातन्त्रं विना राजतन्त्रं, राजतन्त्रं विना प्रजातन्त्रं च एतादृशे अस्माकं राष्ट्रे सान्दर्भिकं न भवतीति बोधः अस्माभिः कृतः अस्ति’ इति तेन सम्प्रसारिते शुभकामना–सन्देशे उल्लिखितम् अस्ति ।
एवञ्च पूर्वराजा ‘परराष्ट्रनीतिः असन्तुलिता संभूय राष्ट्रियसुरक्षायाम् एव गभीरतरा समस्या समागता अस्ति इति स उक्तवान् ।
पूर्वनृपस्य शुभकामना–सन्देशस्य पूर्णपाठाः –
प्रियतमे अग्रजानुजे, एवम् अग्रजानुजौ !
विजयादशम्याः पावनावसरे वयं देशस्थान्, देशात् बहिःस्थान् सम्पूर्णान् नेपालीजनान् शान्तेः सुखस्य च कृते वयं हार्दिकीं शुभकामनां व्याहरामः ।
अस्माकं समाजः सनातनस्य आदर्शत्, पूर्वजानां पुरुषार्थाच्च पृथक् नास्ति । परन्तु अस्माकं राजनीतिः, राजकर्म, राज्यव्यवहारं च न तादृशः भवितुं प्राभवत् । लोककल्याणस्य हेतुः, राजनीतिक–स्वच्छता, जनप्रियता च जनाकांक्षापूर्तये दिव्यमान्यतायाम् आधारिता भवितव्या । परन्तु राजनीतिक–व्यवस्था स्वं, स्वस्य कृते, समूहस्य, तस्य उपसमूहस्य कृते एव जाललिप्ता जाता । कोरोना–महामारकरोगस्य, नैकविधानां प्राकृतप्रकोपानां, आर्जनकर्माभावस्य, महार्घस्य, एवम् च अस्थिरतायाः चक्रव्यूहे पातिताः नेपालिनः सत्यस्य, सेवायाः, तथा च लोकहितस्य अनुभूतिं लब्धवन्तः किम् !
यत् कम् अपि परिवर्तनं तस्य मर्मः देशस्य अन्तःसम्बन्धितो भवति । परिवर्तनस्य प्रभावः जनताभिः स्वस्य दैनिकजीवने अनुभवितव्यः । दुर्भाग्यवशात् शिक्षायाः, स्वास्थ्यस्य च व्यापारीकरणेन, विकासस्य निर्माणस्य च भ्रष्टीकरणेन, प्रशासनिकसेवया, राजनीतिकसेवया च सीमिताः जनताः एव लाभान्वितेन, न्यायिकक्षेत्रे च उत्पन्नेन विचलनेन सर्वत्रैव निराशायाः मेघः आच्छादितो दृश्यते । तद्वदेव सार्वभौमिकतायाः, राष्ट्रियतायाः, राष्ट्रियैकतायाः च दुर्लभायितेन, मौलिकधर्मसंस्कृतेः संकटायितेन, राष्ट्रहितसंवद्र्धने केन्द्रितव्या परराष्टनीतिः असन्तुलितेन, राष्ट्रिय–सुरक्षायाः स्वार्थे च समस्या–समायातेन च अस्मदीयं मनः दग्धम् अस्ति ।
प्रत्येकं नेपालिजनेभ्यः स्वस्य स्वतन्त्रविचारस्य आस्थायाश्च अधिकारः अस्ति, भवति, वर्तते च । राजसंस्था वैचारिकास्थायाः आधारे विभेदं नैव करोति, तस्य विभेदस्य न अस्माकं मान्यता, न च अस्माकं परम्परा । शाहवंशीयराजपद्धतेः इतिहासः स्पष्टं करोति यत् ‘राष्ट्रियावश्यकतायाः जनभावनायाः परिधिम् अतिक्रम्य न कस्याः समस्यायाः अपि समाधानं अन्वितं वर्तते, न अन्वेषणं करोति च । राष्ट्रभक्तेः देशप्रेमस्य भावना च जनतासु दमिताऽपि न समाप्तिम् अधिगच्छति । तथा च योग्यसमये, समुचितविधौ प्रस्फुटितो भवति । कतिपयसमयात् उत्तरदयित्त्वयुक्तेभ्यः एवं च देशभक्तेभ्यः नागरिकेभ्यः राष्ट्रियचिन्तया व्याकुलो भूत्वा अभिव्यक्तान् विचारान् अस्माभिः न केवलं राष्ट्रियानुराग–निष्ठामात्रम् प्रकटीकृतम् अपितु सर्वेषु नेपालिषु राष्ट्रवादिचेतसः सञ्चारः कारितः इति रूपेण बुद्धम् अस्ति । देशस्य तात्काक्या परिस्थित्या अस्मान् पृथक् एव दायित्वं निर्वोढुं बाध्यम् अकारयत् । तथापि प्रजातन्त्रं विना राजतन्त्रं, राजतन्त्रं विना प्रजातन्त्रं च एतादृशे अस्माकं राष्ट्रे सान्दर्भिकं न भवतीति बोधः अस्माभिः कृतः अस्ति । प्रजातान्त्रिकं एवञ्च प्रगतिशीलं अथवा यत्तदपि विचारं प्रति आस्थावन्तः भूत्वापि राष्ट्रश्रद्धया सर्वे च नेपालिनः एकस्याम् एव मालायां ग्रथिताः भविष्यन्तीति विश्वासः अस्माभिः गृहीतः अस्ति । अतीतस्य गौरवपूर्णं विधिं व्यवस्थाञ्च स्मृत्वा, विद्यमानाम् अमिलितां स्थितिं परिमार्जयन्, सकारात्मिकी देशानुकुला राजनीतिः भवेदिति राज्यव्यवस्थायाः सर्वाभिः क्रियाशीलशक्तिभिः सत्यविचारस्य स्थापना क्रियते चेत् जनतानां हितस्य विषये उपयुक्ता क्रियानुभूतिः भविष्यति इति अस्माकं द्रढीयसी धारणा अस्ति । देशात् उच्चैः न वयं केऽपि स्मः ।
श्रीनवदुर्गाभवानी सर्वेभ्यः नेपालिभ्यः राष्ट्रिय–कर्तव्य–निर्वोढुं सामर्थ्यम् प्रददातु इति अस्माकं कामना अस्ति । जयनेपालः ।।।