नेपालसंस्कृतविश्वविद्यालयस्य काष्ठमण्डपस्य प्रदर्शनीमार्गे अवस्थितेन वाल्मीकिविद्यापीठस्य न्यायविभागेन उक्तविभागस्यैव निवर्तमानविभागाध्यक्षा: नव्यन्यायशास्त्रस्य विशिष्टविद्वांस: प्रा.पद्मप्रसादभट्टराईवर्या: साभिनन्दनं विदापिता: सन्ति ।
मार्गशीर्षमासस्य षड्विंशे दिनांके भौमवासरे दिवा एकवादने वाल्मीकिविद्यापीठस्य लघुप्रेक्षालये समायोजिते नेपालसंस्कृतविश्वविद्यालयान्तर्गतस्य वाल्मीकिविद्यापीठस्य न्यायविभागाध्यक्षचराणां प्रा.प्रद्मप्रसादभट्टराईमहाभागानां साभिनन्दन–विदापनकार्यक्रमे सम्प्राप्तत्रिषष्टिवर्षावधिकत्वात् मासैकपूर्वमेव विश्वविद्यालयसेवातो लब्धावकाशा एते प्रा.पद्मप्रसादभट्टराईमहोदया: अभिनन्दनेन साकं विदापिता अभवन् ।
कार्यक्रमोऽयं वाल्मीकिविद्यापीठस्थन्यायविभागस्य विभागाध्यक्षस्य प्रा.जगद्प्रसादोपाध्यायस्य सभापतित्वे नेपालसंस्कृतविश्वविद्यालयस्य पूर्वप्रथमशिक्षाध्यक्षस्य प्रा.डा.विद्यानाथोपाध्यायस्य प्रमुखातिथित्वे प्रा.डा.दीर्घराजघिमिरेवर्यस्य विशिष्टातिथित्वे एवमन्येषां विभिन्नानां महनीयानां विशिष्टविदुषां प्रा.डा.लालमणिपाण्डेय–प्रा.डा.सुदनकुमारपौडेल–प्रा.डा.विष्णुदाहाल–प्रा.डा.ऋषिरामरेग्मी–विद्यापीठप्राचार्यप्रा.डा.भागवतढकालप्रभृतीनामातिथ्ये भव्यरूपेण सम्पन्नो जात आसीत् ।
तत्र सम्मान्यानां तेषां भट्टराईमहाभागानां जीवनवृत्त–व्यक्तित्व–कृतित्वोपरि प्रकाशनम् उक्तविभागस्य सदस्येन प्रा.घनश्यामभण्डारिणा विहितमासीत् चेत् उक्तविभागस्यैव सदस्येन सहप्रा.केशवशरणार्यालेन न्यायविभागपक्षत: प्रदत्तस्य ताम्रपत्रांकिताभिनन्दनपत्रस्य वाचनं कृतमासीत् । ततश्च प्रमुखातिथि–विशिष्टातिथिप्रभृतीनां विशिष्टविदुषां करकमलत: उक्तताम्रपत्रांकितमभिनन्दनपत्रं साभिनन्दितेभ्य: समर्पितमासीत् ।
कार्यक्रमेऽस्मिन् समुपस्थितै: विद्यापीठप्राचार्यप्रा.डा.भागवतढकाल–प्रा.ध्रवभट्टराई–प्रा.डा.सुदनकुमारपौडेल–प्रा.डा.लालमणिपाण्डेयप्रभृतिभिश्च विशिष्टविद्वद्भि: तत्र निवृत्तप्राध्यापकेभ्य: शुभकामना: व्यक्तीकृता: । ततश्च सम्मानीतै: प्राध्यापकै: पद्मप्रसादभट्टराईमहाभागैस्तत्र स्वीया: कार्यानुभावास्तत्र प्रकटीकृता: आसन् । पुनश्च विशिष्टातिथिप्रा.दीर्घराजघिमिरेवर्यैश्च विद्याक्षेत्रे कीदृशोपि भेदभावो न करणीय:, अध्यापनं सेवा न भवति अपितु उपासना भवतीति तद्विषये स्वीयभावं व्यक्तीकृत्य विद्याया: तद्विदां च सदा सम्मानं कर्तव्यमिति प्रोच्य उक्तकार्यक्रमस्य सम्माननीयविदुषे शुभकामना प्रदत्ता । एवं ने.सं.वि.पूर्वशिक्षाध्यक्षै: उक्तकार्यक्रमस्य प्रमुखाति–प्रा.डा.विद्यानाथोपाध्यायवर्यैश्च स्वीयगुरुवर्याणां संस्मरणपूर्वकं तत्प्रदत्तदायित्व–आशाीर्वचसां च संस्मरणेन विगतकाले संस्कृते: स्थिति: कीदृशी आसीत् इदानीं च कीदृशी वर्तते इति संस्मृत्य संस्कृतं प्रति संस्कृतेतरजनानां दृष्टि: कीदृशी अस्ति आसीच्चेति विगतघटनाश्रावणेन अज्ञानमेव अस्य मूलं जडमस्तीति प्रकाशितम् । संस्कृतस्य महत्वमजानद्भिस्तादृशैस्तथा उच्यते इति वदद्भि: तै: संस्कृतस्य महत्वं इदानीन्तनीयै: जनैरवश्यं ज्ञेयमिति सदुपदिश्य जलशायिविष्णो: स्वरूपस्य प्रतीकात्मकार्थप्रकाशनेन संस्कृते सर्वं वर्तते परन्तु तदर्थाविज्ञानम् अविज्ञापनं वा अस्माकमेव दोषोस्तीति प्रतिपादयद्भि: नवीनयुगेन अस्य दायित्वं निर्वोढव्यमति तत्र व्यक्तीकृत्य सम्माननीयविदुषे शुभकामना प्रकटीकृता आसीत् ।
एवं कार्यक्रमस्य मध्ये मध्ये प्रा.डा.देवीनेपाल–प्रा.नवराजघिमिरेवर्याभ्याञ्च सुललित–सुमधुरकाव्यपाठेन च कार्यक्रमोऽयं समलंकृतोप्यभवत् । पुनश्च न्यायविभागस्थयो: पदोन्नतिं सम्प्राप्तयो: प्रा.अच्युतप्रसादलामिछाने–प्रा.घनश्यामभण्डारिमहोदययो: एवं इदानीमेव सहप्राध्यापपकपदे श्रेणीवृद्धिं सम्प्राप्तयो: रमाभट्टराई–केशवशरणअर्यालमहोदययोरपि सम्मानमभवत् ।
राष्ट्रगीत–दीपप्रज्वालन–वैदिकलौकिकोभयविधमंगलाचरणै: सह समारब्धे उक्तसम्मान–विदापनकार्यक्रमे समागतेभ्य: विशिष्टविद्वद्भ्य: स्वागतमन्तव्यं डा.वैकुण्ठघिमिरेमहोदयेन विहितमासीत् चेत् कार्यक्रमस्य संचालनञ्च उपप्रा.श्याममणिनेपालेन कृतमासीत् ।