प्रतिवर्षमिव अस्मिन्नपि वर्षे महेशसंस्कृतगुरुकुलेन गुरुकुलस्य वार्षिकोत्सवो भव्यरूपेण समाचरितो वर्तते । उक्तगुरुकुलस्यैव पीठाधीशानां स्वामिश्रीरमणानन्दगिरिमहाराजानां सभापतित्वे एवं नेपालसर्वकारस्य पूर्वसचिवचरस्य एवम् अद्वैतवेदान्तदर्शनस्य साधकश्रीशरत्कुमारभट्टराईमहाभागस्य च प्रमुखातित्थ्ये उक्तवार्षिकोत्सवो भव्यतया ससम्पन्नोस्ति ।
अवसरेस्मिन् अस्मिन् वर्षे च गुरुकुलेन अद्वैतवेदान्तदर्शनस्य प्रचाराय स्वप्रचवन–सत्संगादीनां माध्यमेन निरन्तरं संलग्नाय अभयवेदान्तकुटीरस्य पीठाधीशाय श्री १००८ स्वामिकृष्णानन्दसरस्वतिमहात्मने वेदनिधिपुरस्कारेण सम्मानं विहितमस्ति ।
एवमेव अद्वैतवेदान्तस्य अध्यापन–ग्रन्थलेखन–प्रवचनादिकार्यमाध्यमेन समाजाय गुरुकुलाय च महद्योगदानं विहितवते उक्तगुरुकुलस्यैव संस्थापकप्राचार्याय अथ च नेपालसंस्कृतविश्वविद्यालयस्य सहप्रा. श्रीगुरुप्रसादसुवेदिने च गुरुकुलाचार्योपाधिना सम्मानं विहितमस्ति । एवं विदेहजनकस्य नाम्ना २०५५तमे वर्षे संस्थापितः पुरस्कारोपि तस्मै एव प्रदत्तोस्तीत्यस्य ज्ञापनं च उक्तगुरुकुलस्यैव पूर्वच्छात्रेण उपप्रा श्रीरोहिणीराजतिमिल्सिनावर्येण अस्मभ्यं कारितमस्ति ।
एवमेव अद्वैतवेदान्तदर्शस्य प्रचाराय तत्तत्कार्यक्षेत्रेषु संलग्नेभ्यः स्वस्यैव गुरुकुलस्य पूर्वछात्रेभ्यश्च तेषां प्रोत्साहनहेतुना तेभ्यः पुरस्कारप्रदानेन गुरुकुलेन सम्मानं विहितमस्ति । तेषु च इदानीं त्रिभुवनविश्वविद्यालये कार्यरताय उपप्रा.रोहिणीराजतिमिल्सिना इत्यस्मै अथ च उक्तगुरुकुलादेव दीक्षां सम्प्राप्य इदानीमपि तस्मिन्नेव गुरुकुले स्वीयं योगदानं विहितवते गुरुकुलस्य प्रधानाचार्याय उपप्रा फणिन्द्रप्रसादपौैैडेलवर्याय, एवं उक्तगुरुकुले एव सहायकप्राध्यापकरूपेण अध्यापनकार्यं कुर्वते देवघाटनामककाव्यनिर्मात्रे नीराजनपन्ताय च जननदेवी–ईश्वरीशोेधवृत्तिद्वारा सम्मानं विहितमस्ति । सम्मानपुस्स्काररूपेण त्रिभिरपि ५०००० सहस्रं(प्रतिव्यक्ति)द्रव्यं सम्प्राप्तमस्ति । महेशसंस्कृतगुरुकुलेन न केवलं अध्यापकवर्गेभ्योपितु विशिष्टप्रतिभावद्भ्यः छात्रेभ्यश्च तेषां प्रोत्साहनरूपेण सम्मानं विहितमस्ति ।
वार्षिकोत्सवसमारोहे च विशिष्टातिथिरूपेण वेदान्तदर्शनविज्ञस्य प्रा.श्रीभवानीप्रसादमिश्रस्य एवं अतिथिरूपेण च वाराणसीस्थ बी.एच.यू.आईटीविभागस्य अध्यापक—न्यायाचार्य—डा. श्रीविश्वनाथधिताल भागवतभूषणश्रीकपिलदेवसुवेदीप्रभृतीनां महनीयविदुषाम् अन्येषां विभिन्नगुरुकुलत आमन्त्रितानां महानुभावानां दातृवर्गाणां च समुपस्थितिरासीत् ।
उक्तसमारोहस्य संचालनञ्च उक्तगुरुकुल(विद्यापीठ)स्य प्राचार्यस्य उपप्रा.श्रीकमलसुवेदिवर्यस्य सहकार्ये प्रधानाचार्येण श्रीफणिन्द्रपौडेलेन विहितमासीति ।